Jump to content

Page:AN 96 Debya Awadan.pdf/64

From Wikisource
This page has been proofread.

यथैनां न परित्यक्षसीति। परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण क्रीडते रमते परिचारयति। सोऽपरेण समयेन स्वदेशमनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति-मातापितृवियोगजं मे दुःखं बाधत इति। ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर्निवेदितः। स कथयति- गच्छ कुमारेण सार्धम्। अपक्रान्तया ते भवितव्यम्। विप्रलम्भका मनुष्याः। ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्त्वा अनुप्रेषितः। स मनोहरया सार्धमुपरिविहायसा किन्नरखगपथेन संप्रस्थितः। अनुपूर्वेण हस्ति