मार्गं प्रतिलप्स्यसे॥३४॥ संकोचयन्तीं प्रसारयन्तीं राक्षसीमायसं मुखम्। यदा पश्येत्तदा कीलं ललाटे तस्या निखानयेत्॥३५॥ शूलावर्तस्तदा कूपो विलङ्घ्यस्ते षष्टिहस्तकः। हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः॥ ३६॥ कार्मुकं मण्डलं कृत्वा हन्तव्यश्च दुरासदः। नद्यश्च बहवस्तार्या नक्त्रग्राहसमाकुलाः॥३७॥ रङ्गा पतङ्गा तपनी चित्रा रुदन्ती हसन्ती आशीविषा वेत्रनदी च। रङ्गायां राक्षसीकोपः पतङ्गायाममानुषाः। तपन्त्यां ग्राहबहुत्वं चित्रायां कामरूपिणः॥३८॥ रुदन्त्यां किन्नरीचेट्यो हसन्त्यां किन्नरीस्नुषा। आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः॥३९॥ रङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः। तपन्त्यां ग्राहमुखबन्धश्चित्रायां विविधं गीतम्॥४०॥ रुदन्त्यां सौमनस्येन समुत्तारः। हसन्त्यां तूष्णीभावेन, आशीविषायां सर्वविषमन्त्रप्रयोगेण समुत्तारः, वेतनद्यां तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः। नदीमतिक्रम्य पञ्च यक्षशतानि गुल्मकस्थानम्। त
Page:AN 96 Debya Awadan.pdf/55
Appearance