Jump to content

Page:AN 96 Debya Awadan.pdf/47

From Wikisource
This page has been proofread.

ब्धेति ? स कथयति- अमुष्मिन् प्रदेशे ऋषिः प्रतिवसति। तस्याश्रमपदे ब्रह्मसभा नाम पुष्किरिणी। तस्यां स्नातुमवतीर्णा ऋषिव्यपदेशेन लब्धेति। स संलक्षयति-ऋषिरिदानीमभिगन्तव्यः, तस्मात्प्रवृत्तिर्भविष्यतीति। एष च वृत्तान्तो राज्ञा श्रुतः मनोहरावियोगात्कुमारोऽतीव विक्लव इति। ततो राज्ञा अभिहितः-कुमारः, किमसि विक्लवः ? इदानीं तद्विशिष्टतरमन्तःपुरं व्यवस्थापयिष्यामीति। स कथयति- तात, न शक्यं मया तामनानीय अन्तः पुरस्थेन भवितुम्। स राज्ञा बह्वप्युच्यमानो न निवर्तते। ततो राज्ञा नगरप्राकारशृङ्गेष्वारक्षकाः पुरुषाः स्थापिताः, यथा कुमारो न निष्कासतीति। कुमारः कृत्स्नां रात्रिं जागर्तुकामः। उक्तं च - पञ्चेमे रात्र्या अल्पं स्वपन्ति बहु जागर्ति। कतमे पञ्च पुरुषाः ? स्त्रिया