This page has been proofread.
तराः स्त्रियः सन्ति, किमर्थं शोकः क्रियते ? सपितुर्नैर्गुण्यमुपश्रुत्य कृतघ्नतां च, मातुः सकाशमुपसंक्रान्तः। पादयोर्निपत्य कथयति- अम्ब, मनोहरां न पश्यामि मनोरथगुणैर्युताम्। साधुरूपसमायुक्ता क्क गता मे मनोहरा॥१७॥ मनसा संप्रधावामि मनो मे संप्रमुह्यते। हृदयं दह्यते चैव रहितस्य तया भृशम्॥ १८॥ मनोभिरामा च मनोहरा च मनोनुकूला च मनोरतिश्च। संतप्तदेहोऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम्॥१९॥ इति। सा कथयति-पुत्र, कृच्छ्रसंकटसंबाधप्राप्ता मनोहरेति मया प्रतिमुक्ता। अम्ब, यथा कथम् ? तया यथावृत्तं विस्तरेण समाख्यातम्। स पितुर्नैर्गुण्यमकृतज्ञतां च ज्ञात्वा कथयति-कुत्र गता कतरेण वा पथेति ? सा कथयति- एषोऽसौ पर्वतशैल ऋषिसंघनिषेवितः।उषितो धर्मराजेन