Jump to content

Page:AN 96 Debya Awadan.pdf/43

From Wikisource
This page has been proofread.

गीत रुदन्त्यां सौमनस्ये समुत्तारम्, हसन्त्यां तूष्णीभावयोगेन, आशीविषायां सर्पविषमन्त्रयोगेन, वेत्रनद्यां तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः। नदीः समतिक्रम्य पञ्च यक्षशतानि गुल्मकम्। तद्धैर्यमास्थाय विद्राव्यम्। ततो द्रुमस्य किन्नरराजस्य भवनमिति। ततो मनोहरा तं ऋषिमेवमुक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता॥ यावत्सुधनः कुमारस्तं कर्वटकं संनाम्य गृहीतप्राभृतो हस्तिनापुरमनुप्राप्तः। श्रुत्वा च राजा परां प्रीतिमुपगतः। ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः। प्रणामं कृत्वा पुरस्तान्निषण्णः। राज्ञा परमया संतोषणया संभाषितः, उक्तश्च-कुमार, शिवेन त्वमागतः ? देव, तव प्रसादात्कर्वटकः संनामितः, निपका गृहीताः, चिन्तकः स्थापितः।