Jump to content

Page:AN 96 Debya Awadan.pdf/41

From Wikisource
This page has been proofread.

गे त्रयः कालपर्वताः, तानतिक्रम्य अपरे त्रयः, तानप्यतिक्रम्य अपरे त्रयः, तानतिक्रम्य हिमवान् पर्वतराजः, तस्योत्तरेणोत्किलकपर्वतः, तर उत्कूलको जलपथ एकधारको वज्रकः कामरूपी। उत्कीलक ऐरावतोऽधोबाणः प्रमोक्षणः एते पर्वताः समतिक्रमणीयाः। तत्र खदिरके पर्वते गुहा, प्रवेश एकधारके तु कीलकाः, वज्रके पक्षिराजेन प्रवेशः। एभिरुपायैस्ते पर्वता अतिक्रमणीयाः, यन्त्राणि च भङ्क्तव्यानि। अजवक्त्रमेण्ढकः पुरुषो राक्षसरूपी पिङ्गलागुहायां लालास्रोतसा महानजगरो वेगेन प्रधावति। स ते विक्रमेण हन्तव्यः। अरान्तरगतां नाभीं यत्र पश्येत्तत्र किटिभकश्च। अयं मुक्तेन बाणेन हन्तव्यो मम कारणात्। यत्र पश्येद्द्वौ मेषौ संघट्टन्तौ परस्परम्। तयोः शृङ्गमेकं भङ्क्त्वा मार्गं प्रतिलप्स्यसे॥९॥ आ