This page has been proofread.
पश्यति सुधनं कुमारम्। तस्यैतदभवत्- अयं भद्रकल्पिको बोधिसत्त्वः खेदमपत्स्यति युद्धायाभिप्रस्थितः। साहाय्यमस्य करणीयम्। कार्वटिकः संनामयितव्यः। न च कस्यचित्प्राणिनः पीडा करणीयेति विदित्वा पाञ्चिकं महायक्षसेनापतिमामन्त्रयते- एहि त्वं पाञ्चिक, सुधनस्य कुमारस्य कार्वटिकमयुद्धेन संनामय। न च ते कस्यचित्प्राणिनः पीडा कर्तव्येति। तथेति पाञ्चिकेन यक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश्चतुरङ्गो बलकायो निर्मितः-तालमात्रप्रमाणाः पुरुषाः, पर्वतप्रमाणा हस्तिनः, हस्तिप्रमाणा अश्वाः। ततो नानाविधखङ्गमुश