This page has been proofread.
द्राष्ट्रे प्रतिष्ठास्यसि, तदा मे किं करिष्यसीति ?। सुधनः कथयति-यथा तव सहायो ब्राह्मणो मम पित्रा पौरिहित्येऽवस्थापितः, एवमहं त्वामपि पौरोहित्ये स्थापयामीति। एष च वृत्तान्तस्तेन ब्राह्मणेन कर्णपरंपरया श्रुतः। तस्यैतदभवत्- अहं तथा करिष्ये, यथा कुमारो राज्यमेव नासादयिष्यति, कुतस्तं पुरोहितं स्थापयिष्यतीति ? यावदपरेण समयेन तस्य राज्ञो विजितेऽन्यतमः कार्वटिकः प्रतिविरुद्धः, तस्य समुच्छित्तये एको दण्डः प्रेषितः। स हतविहतविध्वस्तः प्रत्यागतः। एवं यावत्सप्त, ये दण्डाः प्रेषिताः, तेऽपि हस्तविध्वस्ताः प्रत्यागताः। अमात्यै राजा विज्ञापितः-देव, किमर्थं स्वबलं हार्यते, परं वर्ध्यते ? यावन्नैकः कश्चिद्देवस्य विजिते शस्त्रबलोपजीवी